|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.273. अध्यायः 273
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेण भीष्मसंस्कारोपयोगिसम्भारप्रस्थापनपूर्वकं कृष्णधृतराष्ट्रादिभिःसह भीष्मसमीपं प्रत्यागमनम्॥ 1 ॥ युधिष्ठिरेणाभिवादनपूर्वकं कृष्णाद्यागमनं निवेदितेन भीष्मेण स्वस्य कृष्णयाथात्म्यज्ञानप्रकाशनेन तत्प्रणामस्तुतिपूर्वकं व्यासकृष्णधृतराष्ट्रादिभ्यः स्वस्य प्राणोत्सर्गाभ्यनुज्ञानप्रार्थना॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
ततः कुन्तीसुतो राजा पौरजानपदं जनम्।
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति॥ 13-273-1(92280)
सान्त्वयामास नारीश्च हतपुत्रा हतेश्वराः।
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः॥ 13-273-2(92281)
सोभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः।
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा॥ 13-273-3(92282)
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः।
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतांवरः॥ 13-273-4(92283)
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे।
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः॥ 13-273-5(92284)
स निर्ययौ जगपुराद्यजकैः परिवारितः।
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम्॥ 13-273-6(92285)
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः।
चन्दनागरुमुख्यानि तथा कालगरूणि च॥ 13-273-7(92286)
प्रस्थाप्यच पूर्वं कौन्तेयो भीष्मसंस्करणाय वै।
माल्यानि च वरार्हाणि रत्नानि विविधानि च॥ 13-273-8(92287)
धृतराष्ट्रं पुरुस्कृत्य गान्धारीं च यशस्विनीम्।
मातरं च पृथां धामान्भ्रातॄंश्च पुरुषर्षंभान्॥ 13-273-9(92288)
जनार्दनेनानुगतो विदुरेण च धीमता।
युयुत्सुना च कौरव्यो युयुधानेन चाभिभो॥ 13-273-10(92289)
महता राजभोगेन पारिबर्हेण संवृतः।
स्तूयमानो महातेजा भीष्मिस्याग्नीननुव्रजन्॥ 13-273-11(92290)
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः॥ 13-273-12(92291)
उपास्यमानं व्यासेन पाराशर्येण धीमता।
नारदेन च राजर्षे देवलेनासितेन च॥ 13-273-13(92292)
हतशिष्टैर्नृपैस्चान्यैर्नानादेशसमागतैः।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः॥ 13-273-14(92293)
शयानं वीरशयने ददर्श नृपतिस्ततः।
ततो रथादवारोहद्धातृभिः सह धर्मराट्॥ 13-273-15(92294)
अभिवाद्याथ कौन्तेयः पितामहमरिंदमम्।
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः॥ 13-273-16(92295)
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम्॥ 13-273-17(92296)
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम्॥ 13-273-18(92297)
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते॥ 13-273-19(92298)
प्राप्तोस्मि समये राजन्नग्नीनादाय ते विभो।
आचार्यान्ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे॥ 13-273-20(92299)
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान्॥ 13-273-21(92300)
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः।
तान्पश्य नरशार्दूल समुन्मीलय लोचने॥ 13-273-22(92301)
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया।
यथोक्तं भवता काले सर्वमेव च तत्कृतम्॥ 13-273-23(92302)
वैशम्पायन उवाच। 13-273-24x(7723)
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता।
ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य ह॥ 13-273-24(92303)
ततश्चलवपुर्भीष्मः प्रगृह्य विपुलं भुजम्।
ओघमेघस्वरो वाग्मी काले वचनमब्रवीत्॥ 13-273-25(92304)
दिष्ट्या प्राप्तोसि कौन्तेय सहामात्यो युधिष्ठिर।
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः॥ 13-273-26(92305)
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः।
शरेषु निशिताग्नेषु यथा वर्षशतं तथा॥ 13-273-27(92306)
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति॥ 13-273-28(92307)
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत्॥ 13-273-29(92308)
भीष्म उवाच। 13-273-30x(7724)
राजन्विदितधर्मोसि सुनिर्णीतार्थसंशयः।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः॥ 13-273-30(92309)
वेद शास्त्राणि सूक्ष्माणि धर्मांश्च मनुजेश्वर।
वेदांश्च चतुरः सर्वान्षडङ्गैरुपबृंहितान्॥ 13-273-31(92310)
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि॥ 13-273-32(92311)
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः।
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान्॥ 13-273-33(92312)
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव।
आनृशंस्यपरं ह्येन जानामि गुरुवत्सलम्॥ 13-273-34(92313)
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः।
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि॥ 13-273-35(92314)
वैशम्पायन उवाच। 13-273-36x(7725)
एतावधुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्।
वासुदेवं महाबाहुमभ्यभाषय कौरवः॥ 13-273-36(92315)
भीष्म उवाच। 13-273-37x(7726)
भगवन्देवदेवेश सुरासुरनमस्कृत।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर॥ 13-273-37(92316)
वासुदेवो हिरण्यात्मा पुरुषः सविता विराद्।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः॥ 13-273-38(92317)
त्वद्भक्तं त्वद्गतिं शान्तमुदारमपरिग्रहम्।
त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम॥ 13-273-39(92318)
रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम्।
उक्तवानस्मि दुर्बद्धिं मन्दं दुर्योधनं तदा॥ 13-273-40(92319)
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः॥ 13-273-41(92320)
सन्धानस्य परः कालस्तवेति च पुनःपुनः।
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः।
घातयित्वेह पृथिवीं ततः स निधनं गतः॥ 13-273-42(92321)
त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्।
नरेण सहितं देव बदर्यां सुचिरोषितम्॥ 13-273-43(92322)
तथा मे नारदः प्राह व्यासश्च सुमहातपाः।
नरनारायणावेतौ सम्भूतौ मनुजेष्विति॥ 13-273-44(92323)
स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम्।
त्वयाऽहं समनुज्ञातो गच्छेयं परमां गतिम्॥ 13-273-45(92324)
वासुदेव उवाच। 13-273-46x(7727)
अनुजानामि भीष्म त्वां वसून्प्राप्नुहि पार्थिव।
न तेऽस्ति वृजिनं किञ्चिच्छुद्धात्मैश्वर्यसंयुतः॥ 13-273-46(92325)
पितृभक्तोसि राजर्षे मार्कण्डेय इवापरः।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः॥ 13-273-47(92326)
वैशम्पायन उवाच। 13-273-48x(7728)
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्।
धृतराष्ट्रमुखांश्चापि सर्वांश्च सुहृदस्तथा॥ 13-273-48(92327)
प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम्॥ 13-273-49(92328)
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः॥ 13-273-50(92329)
इत्युक्त्वा सुहृदः सर्वांस्तथा सम्पूज्य चैव ह।
`धनं बहुविधं राजन्दत्त्वा नित्यं द्विजातिषु।'
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः॥ 13-273-51(92330)
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप॥ ॥ 13-273-52(92331)
इति श्रीमन्महाभारते अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः॥ 273 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-273-28 मासः सौम्य इति झ.पाठः। सौम्यश्चान्द्रः। मासस्य चतुर्भागकरणे सार्धसप्ततिथेरेकैकभागत्वात्। अष्टम्यर्धस्यानतीतत्वेन प्रथमभागस्य विद्यमानत्वात् त्रिभागशेषो भवितुमर्हतीत्यर्थः। तेनाद्याष्टमीत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|